वांछित मन्त्र चुनें

प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥

अंग्रेज़ी लिप्यंतरण

prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat | dhātur dyutānāt savituś ca viṣṇo rathaṁtaram ā jabhārā vasiṣṭhaḥ ||

पद पाठ

प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥ १०.१८१.१

ऋग्वेद » मण्डल:10» सूक्त:181» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:39» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में परमेश्वर ने अग्नि वायु सूर्य अङ्गिरा ऋषियों में वेद को प्रेरित किया, उनसे ब्रह्मा ने पढ़ा, गुरुशिष्यपरम्परा ब्रह्मा से चल पड़ी, आदि विषय हैं।

पदार्थान्वयभाषाः - (आनुष्टुभस्य यस्य) अनुष्टुप् वेदवाक् उसके वेदस्वामी ईश्वर के (यस्य हविषः) जिस आदेय ग्रहण करने योग्य वेद का (हविः) विज्ञान (प्रथः सप्रथः-च) उस वेदज्ञान में प्रथनशील शिष्य और शिष्य को बनानेवाला गुरु (वसिष्ठः) वेदवाणी में अत्यन्त बसा हुआ विद्वान् ब्रह्मा (धातुः) मन्त्रद्रष्टा अग्नि से (द्युतानात्) वायु ऋषि से (सवितुः) आदित्य ऋषि से (विष्णोः) अङ्गिरा ऋषि से (रथन्तरं जभार) वेदवाणी को ब्रह्मा अध्ययन करके धारण करता है ॥१॥
भावार्थभाषाः - परमेश्वर की वेदवाणी, जो सारे ज्ञान-विज्ञानों का भण्डार है, उसका अध्ययन और अध्यापन प्रारम्भ सृष्टि से चला है,  अग्नि वायु आदित्य और अङ्गिरा ये चार ऋषि वेदवाणी के प्रथम गुरु, इनसे अध्ययन करनेवाला ब्रह्मा, जो इनका अध्ययन करके अपने अन्दर धारण करता है, वह इनका शिष्य हुआ, पुनः ब्रह्मा से गुरु-शिष्यपरम्परा चालू हुई ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते वेदः परमेश्वरेण खल्वग्निवायुसूर्याङ्गिरःसु प्रेरितः, तेभ्यः खलु ब्रह्माऽधीतधान् स चान्यानध्यापयामास तदनन्तरं गुरुशिष्यपरम्परा प्रचलिता।

पदार्थान्वयभाषाः - (आनुष्टुभस्य यस्य हविषः-हविः) प्रथमा वाग्वेदः “वागेवासौ प्रथमाऽनुष्टुप्” [कौ० १५।३] तस्य वेदस्य स्वामी परमेश्वरस्तस्य-वेदस्वामिनः-यस्य-आदेयस्य विज्ञानस्य वेदस्य “हविः-आदेयं विज्ञानम्” [ऋ० १।१०१।८ दयानन्दः] यद् विज्ञानम् (प्रथः सप्रथः-च वसिष्ठः) वेदविज्ञाने प्रथनशीलः प्रथः अन्यं प्रथनशीलं शिष्यं सम्पादयिता स सप्रथः, एवमतिशयेन वेदवाचि कृतवासः-आदिविद्वान् ब्रह्मा (धातुः-द्युतानात् सवितुः-विष्णोः) अग्नेः “अग्निर्वै द्रष्टा धाता” [तै० ३।३।१०।२] वायोः “यो वाऽयं वायुः पवते एष द्युतानः” [श० ३।६।१।१६] सूर्यात् “असावादित्यो देवः सविता” [श० ६।३।१।१८] अङ्गिरसः, एषां सकाशात् (रथन्तरं जभार) वेदवाचम् “वाग्वै रथन्तरम्” [ऐ० ४।२८] बिभर्ति धारयति ॥१॥